Sukta 1.72
तिस्रो यदग्ने शरदस्त्वामिच्छुचिं घृतेन शुचयः सपर्यान् । नामानि चिद्दधिरे यज्ञियान्यसूदयन्त तन्वः सुजाताः ॥
ति॒स्रो यद॑ग्ने श॒रद॒स्त्वामिच्छुचिं॑ घृ॒तेन॒ शुच॑यः सप॒र्यान् । नामा॑नि चिद्दधिरे य॒ज्ञिया॒न्यसू॑दयन्त त॒न्व१॒॑: सुजा॑ताः ॥
tisró yád agne śarádas tvā́m íc chúcíṃ ghṛténa śúcayaḥ saparyā́n | nā́māni cid dadhire yajñiyā́ny asū́dayanta tanvàḥ sujā́tāḥ ||
For three autumns, O Agni, the pure ones sought you, the pure, and served you with clarified delight. They even set in place the names that belong to the sacrifice; and the well-born bodies of power were driven awake into activity.
ति॒स्रः । यत् । अ॒ग्ने॒ । श॒रदः॑ । त्वाम् । इत् । शुचि॑म् । घृ॒तेन॑ । शुच॑यः । स॒प॒र्यान् । नामा॑नि । चि॒त् । द॒धि॒रे॒ । य॒ज्ञिया॑नि । असू॑दयन्त । त॒न्वः॑ । सुऽजा॑ताः ॥तिस्रः । यत् । अग्ने । शरदः । त्वाम् । इत् । शुचिम् । घृतेन । शुचयः । सपर्यान् । नामानि । चित् । दधिरे । यज्ञियानि । असूदयन्त । तन्वः । सुजाताः ॥tisraḥ | yat | agne | śaradaḥ | tvām | it | śucim | ghṛtena | śucayaḥ | saparyān | nāmāni | cit | dadhire | yajñiyāni | asūdayanta | tanvaḥ | su-jātāḥ