Sukta 1.72
अस्मे वत्सं परि षन्तं न विन्दन्निच्छन्तो विश्वे अमृता अमूराः । श्रमयुवः पदव्यो धियंधास्तस्थुः पदे परमे चार्वग्नेः ॥
अ॒स्मे व॒त्सं परि॒ षन्तं॒ न वि॑न्दन्नि॒च्छन्तो॒ विश्वे॑ अ॒मृता॒ अमू॑राः । श्र॒म॒युव॑: पद॒व्यो॑ धियं॒धास्त॒स्थुः प॒दे प॑र॒मे चार्व॒ग्नेः ॥
asmé vátsaṃ pári ṣántaṃ ná vindann icchánto víśve amṛ́tā amū́rāḥ | śramayúvaḥ padávyō dhiyamdhās tasthúḥ padé paramé cā́rv agnéḥ ||
Here, seeking, all the undeluded immortals did not find the calf that was hidden all around. The young in labour, the path-finders, the holders of the thought, stood at the highest lovely station of Agni.
अ॒स्मे इति॑ । व॒त्सम् । परि॑ । सन्त॑म् । न । वि॒न्द॒न् । इ॒च्छन्तः॑ । विश्वे॑ । अ॒मृताः॑ । अमू॑राः । श्र॒म॒ऽयुवः॑ । प॒द॒व्यः॑ । धि॒य॒म्ऽधाः । त॒स्थुः । प॒दे । प॒र॒मे । चारु॑ । अ॒ग्नेः ॥अस्मे इति । वत्सम् । परि । सन्तम् । न । विन्दन् । इच्छन्तः । विश्वे । अमृताः । अमूराः । श्रमयुवः । पदव्यः । धियम्धाः । तस्थुः । पदे । परमे । चारु । अग्नेः ॥asme iti | vatsam | pari | santam | na | vindan | icchantaḥ | viśve | amṛtāḥ | amūrāḥ | śrama-yuvaḥ | padavyaḥ | dhiyam-dhāḥ | tasthuḥ | pade | parame | cāru | agneḥ