Sukta 1.72
नि काव्या वेधसः शश्वतस्कर्हस्ते दधानो नर्या पुरूणि । अग्निर्भुवद्रयिपती रयीणां सत्रा चक्राणो अमृतानि विश्वा ॥
नि काव्या॑ वे॒धस॒: शश्व॑तस्क॒र्हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑ । अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णां स॒त्रा च॑क्रा॒णो अ॒मृता॑नि॒ विश्वा॑ ॥
ní kā́vyā vedhásaḥ śáśvatas kar hás te dádhāno náryā purū́ṇi | agnír bhuvad rayipátī rayīṇā́ṃ satrā́ cakrāṇó amṛ́tāni víśvā ||
The ever-lasting Formator sets down the inspired works; holding in his hand many humanly helpful powers. Agni becomes the lord of plenitudes, continuously fashioning all the immortal things within us.
नि । काव्या॑ । वे॒धसः॑ । शश्व॑तः । कः॒ । हस्ते॑ । दधा॑नः । नर्या॑ । पु॒रूणि॑ । अ॒ग्निः । भु॒व॒त् । र॒यि॒ऽपतिः॑ । र॒यी॒णाम् । स॒त्रा । च॒क्रा॒णः । अ॒मृता॑नि । विश्वा॑ ॥नि । काव्या । वेधसः । शश्वतः । कः । हस्ते । दधानः । नर्या । पुरूणि । अग्निः । भुवत् । रयिपतिः । रयीणाम् । सत्रा । चक्राणः । अमृतानि । विश्वा ॥ni | kāvyā | vedhasaḥ | śaśvataḥ | kaḥ | haste | dadhānaḥ | naryā | purūṇi | agniḥ | bhuvat | rayi-patiḥ | rayīṇām | satrā | cakrāṇaḥ | amṛtāni | viśvā