Sukta 1.71
मनो न योऽध्वनः सद्य एत्येकः सत्रा सूरो वस्व ईशे । राजाना मित्रावरुणा सुपाणी गोषु प्रियममृतं रक्षमाणा ॥
मनो॒ न योऽध्व॑नः स॒द्य एत्येक॑: स॒त्रा सूरो॒ वस्व॑ ईशे । राजा॑ना मि॒त्रावरु॑णा सुपा॒णी गोषु॑ प्रि॒यम॒मृतं॒ रक्ष॑माणा ॥
manó na yó ’dhvánaḥ sadyá éty ékaḥ satrā́ sū́ro vásva īśe | rājānā mitrā́varuṇā supāṇī góṣu priyám amṛ́taṃ rákṣamāṇā ||
He who goes at once on the path like the mind—one, ever-present—he as the sun rules the riches. The two kings, Mitra and Varuṇa, with good hands, guard among the rays (cows) the beloved immortal treasure.
मनः॑ । न । यः । अध्व॑नः । स॒द्यः । एति॑ । एकः॑ । स॒त्रा । सूरः॑ । वस्वः॑ । ई॒शे॒ । राजा॑ना । मि॒त्रावरु॑णा । सु॒पा॒णी इति॑ सु॒ऽपा॒णी । गोषु॑ । प्रि॒यम् । अ॒मृत॑म् । रक्ष॑माणा ॥मनः । न । यः । अध्वनः । सद्यः । एति । एकः । सत्रा । सूरः । वस्वः । ईशे । राजाना । मित्रावरुणा । सुपाणी इति सुपाणी । गोषु । प्रियम् । अमृतम् । रक्षमाणा ॥manaḥ | na | yaḥ | adhvanaḥ | sadyaḥ | eti | ekaḥ | satrā | sūraḥ | vasvaḥ | īśe | rājānā | mitrāvaruṇā | supāṇī itisu-pāṇī | goṣu | priyam | amṛtam | rakṣamāṇā