Sukta 1.71
मा नो अग्ने सख्या पित्र्याणि प्र मर्षिष्ठा अभि विदुष्कविः सन् । नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेरधीहि ॥
मा नो॑ अग्ने स॒ख्या पित्र्या॑णि॒ प्र म॑र्षिष्ठा अ॒भि वि॒दुष्क॒विः सन् । नभो॒ न रू॒पं ज॑रि॒मा मि॑नाति पु॒रा तस्या॑ अ॒भिश॑स्ते॒रधी॑हि ॥
mā́ no agne sakhyā́ pitryā́ṇi prá marṣiṣṭhā abhí vidúṣ kavíḥ sán | nábho ná rūpáṃ jarimā́ mināti purā́ tasyā abhíśaster ádhīhi ||
O Agni, do not neglect our ancestral friendships; being the seer who knows, be wholly attentive to us. As age does not mar the form of the sky, so may no wasting diminish us; before that assault of hostile speech, stand over us and protect.
मा । नः॒ । अ॒ग्ने॒ । स॒ख्या । पित्र्या॑णि । प्र । म॒र्षि॒ष्ठाः॒ । अ॒भि । वि॒दुः । क॒विः । सन् । नभः॑ । न । रू॒पम् । ज॒रि॒मा । मि॒ना॒ति॒ । पु॒रा । तस्याः॑ । अ॒भिऽश॑स्तेः । अधि॑ । इ॒हि॒ ॥मा । नः । अग्ने । सख्या । पित्र्याणि । प्र । मर्षिष्ठाः । अभि । विदुः । कविः । सन् । नभः । न । रूपम् । जरिमा । मिनाति । पुरा । तस्याः । अभिशस्तेः । अधि । इहि ॥mā | naḥ | agne | sakhyā | pitryāṇi | pra | marṣiṣṭhāḥ | abhi | viduḥ | kaviḥ | san | nabhaḥ | na | rūpam | jarimā | mināti | purā | tasyāḥ | abhi-śasteḥ | adhi | ihi