Sukta 1.71
आ यदिषे नृपतिं तेज आनट् छुचि रेतो निषिक्तं द्यौरभीके । अग्निः शर्धमनवद्यं युवानं स्वाध्यं जनयत्सूदयच्च ॥
आ यदि॒षे नृ॒पतिं॒ तेज॒ आन॒ट् छुचि॒ रेतो॒ निषि॑क्तं॒ द्यौर॒भीके॑ । अ॒ग्निः शर्ध॑मनव॒द्यं युवा॑नं स्वा॒ध्यं॑ जनयत्सू॒दय॑च्च ॥
ā yád iṣé nṛpátiṃ téja ā́naṭ chúcí réto níṣiktaṃ dyáur abhī́ke | agníḥ śárdham anavádyaṃ yúvānaṃ svā́dhyaṃ janayat sū́dayac ca ||
When the lord of men reaches the force of impulsion, then Heaven, close at hand, pours in the bright seed. Agni brings to birth the faultless youthful host, self-mastering in its law of being, and he drives it onward to its fulfilment.
आ । यत् । इ॒षे । नृ॒ऽपति॑म् । तेजः॑ । आन॑ट् । शुचि॑ । रेतः॑ । निऽसि॑क्तम् । द्यौः । अ॒भीके॑ । अ॒ग्निः । शर्ध॑म् । अ॒न॒व॒द्यम् । युवा॑नम् । सु॒ऽआ॒ध्य॑म् । ज॒न॒य॒त् । सू॒दय॑त् । च॒ ॥आ । यत् । इषे । नृपतिम् । तेजः । आनट् । शुचि । रेतः । निसिक्तम् । द्यौः । अभीके । अग्निः । शर्धम् । अनवद्यम् । युवानम् । सुआध्यम् । जनयत् । सूदयत् । च ॥ā | yat | iṣe | nṛ-patim | tejaḥ | ānaṭ | śuci | retaḥ | ni-siktam | dyauḥ | abhīke | agniḥ | śardham | anavadyam | yuvānam | su-ādhyam | janayat | sūdayat | ca