Sukta 1.71
अग्निं विश्वा अभि पृक्षः सचन्ते समुद्रं न स्रवतः सप्त यह्वीः । न जामिभिर्वि चिकिते वयो नो विदा देवेषु प्रमतिं चिकित्वान् ॥
अ॒ग्निं विश्वा॑ अ॒भि पृक्ष॑: सचन्ते समु॒द्रं न स्र॒वत॑: स॒प्त य॒ह्वीः । न जा॒मिभि॒र्वि चि॑किते॒ वयो॑ नो वि॒दा दे॒वेषु॒ प्रम॑तिं चिकि॒त्वान् ॥
agníṃ víśvā abhí pṛ́kṣaḥ sacante samudráṃ ná sravátaḥ saptá yahvī́ḥ | ná jāmíbhir ví cikite váyo no vidā́ devéṣu prámatíṃ cikitvān ||
All nourishments press and cling to Agni, as seven mighty streams flow to the ocean. Not by habitual kinships does he discern our life-force; the knowing one finds for us the right orientation of mind among the gods.
अ॒ग्निम् । विश्वाः॑ । अ॒भि । पृक्षः॑ । स॒च॒न्ते॒ । स॒मु॒द्रम् । न । स्र॒वतः॑ । स॒प्त । य॒ह्वीः । न । जा॒मिभिः॑ । वि । चि॒कि॒ते॒ । वयः॑ । नः॒ । वि॒दाः । दे॒वेषु॑ । प्रऽम॑तिम् । चि॒कि॒त्वान् ॥अग्निम् । विश्वाः । अभि । पृक्षः । सचन्ते । समुद्रम् । न । स्रवतः । सप्त । यह्वीः । न । जामिभिः । वि । चिकिते । वयः । नः । विदाः । देवेषु । प्रमतिम् । चिकित्वान् ॥agnim | viśvāḥ | abhi | pṛkṣaḥ | sacante | samudram | na | sravataḥ | sapta | yahvīḥ | na | jāmibhiḥ | vi | cikite | vayaḥ | naḥ | vidāḥ | deveṣu | pra-matim | cikitvān