Sukta 1.71
स्व आ यस्तुभ्यं दम आ विभाति नमो वा दाशादुशतो अनु द्यून् । वर्धो अग्ने वयो अस्य द्विबर्हा यासद्राया सरथं यं जुनासि ॥
स्व आ यस्तुभ्यं॒ दम॒ आ वि॒भाति॒ नमो॑ वा॒ दाशा॑दुश॒तो अनु॒ द्यून् । वर्धो॑ अग्ने॒ वयो॑ अस्य द्वि॒बर्हा॒ यास॑द्रा॒या स॒रथं॒ यं जु॒नासि॑ ॥
svá ā yás tubhyaṃ dáma ā vibhā́ti námo vā dāśā́d uśató ánu dyū́n | várdho agne váyo asya dvibárhā yā́sadrāyā sárathaṃ yáṃ junā́si ||
He who in his own home shines out for you—offering obeisance or a gift—moves day after day with the flame of aspiration. O Agni, increase this man’s plenitude of life with your double support, so that by the wealth of being he may reach the chariot-path that you yoke and impel.
स्वे । आ । यः । तुभ्य॑म् । दमे॑ । आ । वि॒ऽभाति॑ । नमः॑ । वा॒ । दाशा॑त् । उ॒श॒तः । अनु॑ । द्यून् । वर्धः॑ । अ॒ग्ने॒ । वयः॑ । अ॒स्य॒ । द्वि॒ऽबर्हाः॑ । यास॑त् । रा॒या । स॒ऽरथ॑म् । यम् । जु॒नासि॑ ॥स्वे । आ । यः । तुभ्यम् । दमे । आ । विभाति । नमः । वा । दाशात् । उशतः । अनु । द्यून् । वर्धः । अग्ने । वयः । अस्य । द्विबर्हाः । यासत् । राया । सरथम् । यम् । जुनासि ॥sve | ā | yaḥ | tubhyam | dame | ā | vi-bhāti | namaḥ | vā | dāśāt | uśataḥ | anu | dyūn | vardhaḥ | agne | vayaḥ | asya | dvi-barhāḥ | yāsat | rāyā | sa-ratham | yam | junāsi