Sukta 1.71
महे यत्पित्र ईं रसं दिवे करव त्सरत्पृशन्यश्चिकित्वान् । सृजदस्ता धृषता दिद्युमस्मै स्वायां देवो दुहितरि त्विषिं धात् ॥
म॒हे यत्पि॒त्र ईं॒ रसं॑ दि॒वे करव॑ त्सरत्पृश॒न्य॑श्चिकि॒त्वान् । सृ॒जदस्ता॑ धृष॒ता दि॒द्युम॑स्मै॒ स्वायां॑ दे॒वो दु॑हि॒तरि॒ त्विषिं॑ धात् ॥
mahe yat pitrá īṃ rásaṃ divé karavát tsarat pṛśányāś cikitvān | sṛjádatā dhṛṣatā didyúm asmai svāyāṃ devó duhitári tviṣíṃ dhāt ||
When the Wise One made the savour (rasa)—the inner essence—for the Great Father and for the Heaven, then the knowing Pṛśanya moved forth. He, the archer, released with daring the flashing light for him; and the god placed the splendour in his own daughter—within her proper home.
म॒हे । यत् । पि॒त्रे । ई॒म् । रस॑म् । दि॒वे । कः । अव॑ । त्स॒र॒त् । पृ॒श॒न्यः॑ । चि॒कि॒त्वान् । सृ॒जत् । अस्ता॑ । धृष॒ता । दि॒द्युम् । अ॒स्मै॒ । स्वाया॑म् । दे॒वः । दु॒हि॒तरि॑ । त्विषि॑म् । धा॒त् ॥महे । यत् । पित्रे । ईम् । रसम् । दिवे । कः । अव । त्सरत् । पृशन्यः । चिकित्वान् । सृजत् । अस्ता । धृषता । दिद्युम् । अस्मै । स्वायाम् । देवः । दुहितरि । त्विषिम् । धात् ॥mahe | yat | pitre | īm | rasam | dive | kaḥ | ava | tsarat | pṛśanyaḥ | cikitvān | sṛjat | astā | dhṛṣatā | didyum | asmai | svāyām | devaḥ | duhitari | tviṣim | dhāt