Sukta 1.71
मथीद्यदीं विभृतो मातरिश्वा गृहेगृहे श्येतो जेन्यो भूत् । आदीं राज्ञे न सहीयसे सचा सन्ना दूत्यं भृगवाणो विवाय ॥
मथी॒द्यदीं॒ विभृ॑तो मात॒रिश्वा॑ गृ॒हेगृ॑हे श्ये॒तो जेन्यो॒ भूत् । आदीं॒ राज्ञे॒ न सही॑यसे॒ सचा॒ सन्ना दू॒त्यं१॒॑ भृग॑वाणो विवाय ॥
mathī́d yad ī́ṃ víbhṛto mātáriśvā gṛhé-gṛhe śyetó jényo bhū́t | ā́d īṃ rājñé ná sahī́yase sácā sánn ā́ dūtyáṃ bhṛ́gavāṇo vivāya
When Mātariśvan, bearing him, churned him forth, the shining and conquering one was born in every house; then, as to a king mighty in strength, the Bhṛgu brought him, abiding with him, for the work of mediation.
मथी॑त् । यत् । ई॒म् । विऽभृ॑तः । मा॒त॒रिश्वा॑ । गृ॒हेऽगृ॑हे । श्ये॒तः । जेन्यः॑ । भूत् । आदी॑म् । राज्ञे॑ । न । सही॑यसे । सचा॑ । सन् । आ । दू॒त्य॑म् । भृग॑वाणः । वि॒वा॒य॒ ॥मथीत् । यत् । ईम् । विभृतः । मातरिश्वा । गृहेगृहे । श्येतः । जेन्यः । भूत् । आदीम् । राज्ञे । न । सहीयसे । सचा । सन् । आ । दूत्यम् । भृगवाणः । विवाय ॥mathīt | yat | īm | vi-bhṛtaḥ | mātariśvā | gṛhe--gṛhe | śyetaḥ | jenyaḥ | bhūt | ādīm | rājñe | na | sahīyase | sacā | san | ā | dūtyam | bhṛgavāṇaḥ | vivāya