Sukta 1.71
दधन्नृतं धनयन्नस्य धीतिमादिदर्यो दिधिष्वो विभृत्राः । अतृष्यन्तीरपसो यन्त्यच्छा देवाञ्जन्म प्रयसा वर्धयन्तीः ॥
दध॑न्नृ॒तं ध॒नय॑न्नस्य धी॒तिमादिद॒र्यो दि॑धि॒ष्वो॒३॒॑ विभृ॑त्राः । अतृ॑ष्यन्तीर॒पसो॑ य॒न्त्यच्छा॑ दे॒वाञ्जन्म॒ प्रय॑सा व॒र्धय॑न्तीः ॥
dádhann ṛtáṃ dhánayann asya dhītím ā́d íd aryó didhiṣvó víbhṛtrāḥ | átṛṣyantīr apáso yánty ácchā devā́n jánma práyasā vardháyantīḥ
Setting the Truth in place and increasing his thought, the noble one, desiring to establish, bears the many supports; the tireless works move straight toward the gods, fostering the birth of the divine powers by their offering-impulse.
दध॑न् । ऋ॒तम् । ध॒नय॑न् । अ॒स्य॒ । धी॒तिम् । आत् । इत् । अ॒र्यः । द॒धि॒ष्वः॑ । विऽभृ॑त्राः । अतृ॑ष्यन्तीः । अ॒पसः॑ । य॒न्ति । अच्छ॑ । दे॒वान् । जन्म॑ । प्रय॑सा । व॒र्धय॑न्तीः ॥दधन् । ऋतम् । धनयन् । अस्य । धीतिम् । आत् । इत् । अर्यः । दधिष्वः । विभृत्राः । अतृष्यन्तीः । अपसः । यन्ति । अच्छ । देवान् । जन्म । प्रयसा । वर्धयन्तीः ॥dadhan | ṛtam | dhanayan | asya | dhītim | āt | it | aryaḥ | dadhiṣvaḥ | vi-bhṛtrāḥ | atṛṣyantīḥ | apasaḥ | yanti | accha | devān | janma | prayasā | vardhayantīḥ