Sukta 1.71
वीळु चिद्दृळ्हा पितरो न उक्थैरद्रिं रुजन्नङ्गिरसो रवेण । चक्रुर्दिवो बृहतो गातुमस्मे अहः स्वर्विविदुः केतुमुस्राः ॥
वी॒ळु चि॑द्दृ॒ळ्हा पि॒तरो॑ न उ॒क्थैरद्रिं॑ रुज॒न्नङ्गि॑रसो॒ रवे॑ण । च॒क्रुर्दि॒वो बृ॑ह॒तो गा॒तुम॒स्मे अह॒: स्व॑र्विविदुः के॒तुमु॒स्राः ॥
vīḷú cid dṛḷhā́ pitaro na uktháir ádrim rujánn áṅgirasaḥ ravéṇa | cakrúr divó bṛható gātúm asmè áhaḥ svàr vivíduḥ ketúm usrā́ḥ
Even what was firmly shut, our fathers with the word broke open—the Angirases with the cry shattered the rock; they made for us a path into the vast heaven, they found the Day and the Sun’s luminous token, and the shining rays.
वी॒ळु । चि॒त् । दृ॒ळ्हा । पि॒तरः॑ । नः॒ । उ॒क्थैः । अद्रि॑म् । रुज॑न् । अङ्गि॑रसः । रवे॑ण । च॒क्रुः । दि॒वः । बृ॒ह॒तः । गा॒तुम् । अ॒स्मे इति॑ । अह॒रिति॑ । स्वः॑ । वि॒वि॒दुः॒ । के॒तुम् । उ॒स्राः ॥वीळु । चित् । दृळ्हा । पितरः । नः । उक्थैः । अद्रिम् । रुजन् । अङ्गिरसः । रवेण । चक्रुः । दिवः । बृहतः । गातुम् । अस्मे इति । अहरिति । स्वः । विविदुः । केतुम् । उस्राः ॥vīḷu | cit | dṛḷhā | pitaraḥ | naḥ | ukthaiḥ | adrim | rujan | aṅgirasaḥ | raveṇa | cakruḥ | divaḥ | bṛhataḥ | gātum | asme iti | ahariti | svaḥ | vividuḥ | ketum | usrāḥ