Sukta 1.71
उप प्र जिन्वन्नुशतीरुशन्तं पतिं न नित्यं जनयः सनीळाः । स्वसारः श्यावीमरुषीमजुष्रञ्चित्रमुच्छन्तीमुषसं न गावः ॥
उप॒ प्र जि॑न्वन्नुश॒तीरु॒शन्तं॒ पतिं॒ न नित्यं॒ जन॑य॒: सनी॑ळाः । स्वसा॑र॒: श्यावी॒मरु॑षीमजुष्रञ्चि॒त्रमु॒च्छन्ती॑मु॒षसं॒ न गाव॑: ॥
úpa prá jinvann uśatī́r uśántam pátiṃ ná nítyaṃ jánayaḥ sa-nīḷāḥ | svásāraḥ śyā́vīm áruṣīm ájuṣran citrám ucchántīm uṣásam ná gā́vaḥ
They press forward and awaken the Desired One with their desire, as women rouse the ever-present lord; sisters of one home delight in the dark and the ruddy—like cows they follow the many-colored Dawn as she rises.
उप॑ । प्र । जि॒न्व॒न् । उ॒श॒तीः । उ॒शन्त॑म् । पति॑म् । न । नित्य॑म् । जन॑यः । सऽनी॑ळाः । स्वसा॑रः । श्यावी॑म् । अरु॑षीम् । अ॒जु॒ष्र॒न् । चि॒त्रम् । उ॒च्छन्ती॑म् । उ॒षस॑म् । न । गावः॑ ॥उप । प्र । जिन्वन् । उशतीः । उशन्तम् । पतिम् । न । नित्यम् । जनयः । सनीळाः । स्वसारः । श्यावीम् । अरुषीम् । अजुष्रन् । चित्रम् । उच्छन्तीम् । उषसम् । न । गावः ॥upa | pra | jinvan | uśatīḥ | uśantam | patim | na | nityam | janayaḥ | sa-nīḷāḥ | svasāraḥ | śyāvīm | aruṣīm | ajuṣran | citram | ucchantīm | uṣasam | na | gāvaḥ