Sukta 1.7
वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा । ईशानो अप्रतिष्कुतः ॥
वृषा॑ यू॒थेव॒ वंस॑गः कृ॒ष्टीरि॑य॒र्त्योज॑सा । ईशा॑नो॒ अप्र॑तिष्कुतः ॥
vṛ́ṣā yūthéva váṃsagaḥ kṛṣṭī́r iyartý ójasā | ī́śāno ápratiṣkutaḥ ||
A Bull of force, like a leader of the herd, he sets the human kindreds in right motion by his might; a sovereign master, he is not to be thrust back or overborne.
वृषा॑ । यू॒थाऽइ॑व । वंस॑गः । कृ॒ष्टीः इ॒य॒र्ति॒ । ओज॑सा । ईशा॑नः । अप्र॑तिऽस्कुतः ॥वृषा । यूथाइव । वंसगः । कृष्टीः इयर्ति । ओजसा । ईशानः । अप्रतिस्कुतः ॥vṛṣā | yūthāiva | vaṃsagaḥ | kṛṣṭīḥ iyarti | ojasā | īśānaḥ | aprati-skutaḥ