Sukta 1.7
इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । अस्माकमस्तु केवलः ॥
इन्द्रं॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने॑भ्यः । अ॒स्माक॑मस्तु॒ केव॑लः ॥
índraṃ vo viśvátas pári hávāmahe jánébhyáḥ | asmā́kam astu kévalaḥ ||
Indra we invoke for you from every side, beyond the ordinary human calls; may he be ours alone—an undivided power working wholly for our inner victory.
इन्द्र॑म् । वः॒ । वि॒श्वतः॑ । परि॑ । हवा॑महे । जने॑भ्यः । अ॒स्माक॑म् । अ॒स्तु॒ । केव॑लः ॥इन्द्रम् । वः । विश्वतः । परि । हवामहे । जनेभ्यः । अस्माकम् । अस्तु । केवलः ॥indram | vaḥ | viśvataḥ | pari | havāmahe | janebhyaḥ | asmākam | astu | kevalaḥ