Sukta 1.69
परि प्रजातः क्रत्वा बभूथ भुवो देवानां पिता पुत्रः सन् ॥
परि॒ प्रजा॑त॒: क्रत्वा॑ बभूथ॒ भुवो॑ दे॒वानां॑ पि॒ता पु॒त्रः सन् ॥
pári prajā́taḥ krátvā babhūtha bhúvo devā́nāṁ pitā́ putráḥ sán |
Born forth on every side by the power of will, thou hast become the father of the gods and yet their son—support of their becoming.
परि॑ । प्रऽजा॑तः । क्रत्वा॑ । ब॒भू॒थ॒ । भुवः॑ । दे॒वाना॑म् । पि॒ता । पु॒त्रः । सन् ॥परि । प्रजातः । क्रत्वा । बभूथ । भुवः । देवानाम् । पिता । पुत्रः । सन् ॥pari | pra-jātaḥ | kratvā | babhūtha | bhuvaḥ | devānām | pitā | putraḥ | san