Sukta 1.64
रोदसी आ वदता गणश्रियो नृषाचः शूराः शवसाहिमन्यवः । आ वन्धुरेष्वमतिर्न दर्शता विद्युन्न तस्थौ मरुतो रथेषु वः ॥
रोद॑सी॒ आ व॑दता गणश्रियो॒ नृषा॑चः शूरा॒: शव॒साहि॑मन्यवः । आ व॒न्धुरे॑ष्व॒मति॒र्न द॑र्श॒ता वि॒द्युन्न त॑स्थौ मरुतो॒ रथे॑षु वः ॥
ródasī́ íti ā́ vadata gaṇa-śriyó nṛ-sā́caḥ śūrā́ḥ śávasā́hi-manyavaḥ | ā́ vandhúreṣv amátiḥ ná darśatā́ vidyút ná tasthau maruto rátheṣu vaḥ ||
‘Heaven and Earth!’—so speak forth, O glorious troop, companions of man, heroes, serpent-fierce in force. Upon your chariots the unmeasured power stands visible like lightning; O Maruts, it has taken its station in your car-frames.
रोद॑सी॒ इति॑ । आ । व॒द॒त॒ । ग॒ण॒ऽश्रि॒यः॒ । नृऽसा॑चः । शूराः॑ । शव॑सा । अहि॑ऽमन्यवः । आ । व॒न्धुरे॑षु । अ॒मतिः॑ । न । द॒र्श॒ता । वि॒द्युत् । न । त॒स्थौ॒ । म॒रु॒तः॒ । रथे॑षु । वः॒ ॥रोदसी इति । आ । वदत । गणश्रियः । नृसाचः । शूराः । शवसा । अहिमन्यवः । आ । वन्धुरेषु । अमतिः । न । दर्शता । विद्युत् । न । तस्थौ । मरुतः । रथेषु । वः ॥rodasī iti | ā | vadata | gaṇa-śriyaḥ | nṛ-sācaḥ | śūrāḥ | śavasā | ahi-manyavaḥ | ā | vandhureṣu | amatiḥ | na | darśatā | vidyut | na | tasthau | marutaḥ | ratheṣu | vaḥ