Sukta 1.64
सिंहा इव नानदति प्रचेतसः पिशा इव सुपिशो विश्ववेदसः । क्षपो जिन्वन्तः पृषतीभिॠष्टिभिः समित्सबाधः शवसाहिमन्यवः ॥
सिं॒हा इ॑व नानदति॒ प्रचे॑तसः पि॒शा इ॑व सु॒पिशो॑ वि॒श्ववे॑दसः । क्षपो॒ जिन्व॑न्त॒: पृष॑तीभिॠ॒ष्टिभि॒: समित्स॒बाध॒: शव॒साहि॑मन्यवः ॥
siṃhā́ iva nā́nadati prá-cetasaḥ piśā́ iva su-píśo viśvá-vedasaḥ | kṣápo jínvantaḥ pṛ́ṣatībhi r̥ṣṭí-bhiḥ sám it sa-bā́dhaḥ śávasā́hi-manyavaḥ ||
Like lions they roar, wide-aware in consciousness; like bright-hued beings, perfectly formed, knowing all. They drive the nights onward with their speckled lances; with one united pressure they smite the obstruction, violent in their force of will.
सिं॒हाःऽइ॑व । ना॒न॒द॒ति॒ । प्रऽचे॑तसः । पि॒शाःऽइ॑व । सु॒ऽपिशः॑ । वि॒श्वऽवे॑दसः । क्षपः॑ । जिन्व॑न्तः । पृष॑तीभिः । ऋ॒ष्टिऽभिः॑ । सम् । इत् । स॒ऽबाधः॒ । शव॑सा । अहि॑ऽमन्यवः ॥सिंहाःइव । नानदति । प्रचेतसः । पिशाःइव । सुपिशः । विश्ववेदसः । क्षपः । जिन्वन्तः । पृषतीभिः । ऋष्टिभिः । सम् । इत् । सबाधः । शवसा । अहिमन्यवः ॥siṃhāḥ-iva | nānadati | pra-cetasaḥ | piśāḥ-iva | su-piśaḥ | viśva-vedasaḥ | kṣapaḥ | jinvantaḥ | pṛṣatībhiḥ | ṛṣṭi-bhiḥ | sam | it | sa-bādhaḥ | śavasā | ahi-manyavaḥ