Sukta 1.64
महिषासो मायिनश्चित्रभानवो गिरयो न स्वतवसो रघुष्यदः । मृगा इव हस्तिनः खादथा वना यदारुणीषु तविषीरयुग्ध्वम् ॥
म॒हि॒षासो॑ मा॒यिन॑श्चि॒त्रभा॑नवो गि॒रयो॒ न स्वत॑वसो रघु॒ष्यद॑: । मृ॒गा इ॑व ह॒स्तिन॑: खादथा॒ वना॒ यदारु॑णीषु॒ तवि॑षी॒रयु॑ग्ध्वम् ॥
mahíṣāso māyínaś citrá-bhānavo gírayō ná svá-tavaso raghu-syádaḥ | mṛgā́ iva hastínaḥ khādatʰā vánā yád āruṇī́ṣu táviṣīr áyugdhvam ||
Bull-like in force, possessors of a shaping power, of varied lights, self-strong and swift in their rush like mountains—like wild beasts, like elephants, you feed on the forests, when in the ruddy regions you yoked your energies.
म॒हि॒षासः॑ । मा॒यिनः॑ । चि॒त्रऽभा॑नवः । गि॒रयः॑ । न । स्वऽत॑वसः । र॒घु॒ऽस्यदः॑ । मृ॒गाःऽइ॑व । ह॒स्तिनः॑ । स्वा॒द॒थ॒ । वना॑ । यत् । आरु॑णीषु । तवि॑षीः । अयु॑ग्ध्वम् ॥महिषासः । मायिनः । चित्रभानवः । गिरयः । न । स्वतवसः । रघुस्यदः । मृगाःइव । हस्तिनः । स्वादथ । वना । यत् । आरुणीषु । तविषीः । अयुग्ध्वम् ॥mahiṣāsaḥ | māyinaḥ | citra-bhānavaḥ | girayaḥ | na | sva-tavasaḥ | raghu-syadaḥ | mṛgāḥ-iva | hastinaḥ | svādatha | vanā | yat | āruṇīṣu | taviṣīḥ | ayugdhvam