Sukta 1.64
पिन्वन्त्यपो मरुतः सुदानवः पयो घृतवद्विदथेष्वाभुवः । अत्यं न मिहे वि नयन्ति वाजिनमुत्सं दुहन्ति स्तनयन्तमक्षितम् ॥
पिन्व॑न्त्य॒पो म॒रुत॑: सु॒दान॑व॒: पयो॑ घृ॒तव॑द्वि॒दथे॑ष्वा॒भुव॑: । अत्यं॒ न मि॒हे वि न॑यन्ति वा॒जिन॒मुत्सं॑ दुहन्ति स्त॒नय॑न्त॒मक्षि॑तम् ॥
pínvanty apó marútaḥ su-dā́naváḥ páyo ghṛtá-vad vidátheṣv ā-bhúvaḥ | átyaṃ ná mihé ví nayanti vā́jinam útsaṃ duhanti stanáyantam ákṣitam ||
The Maruts, good givers, swell the waters; in the gatherings they become present with a milk rich like ghee. Like a swift steed in the mist they lead the force forward; they milk the thundering fountain, inexhaustible.
पिन्व॑न्ति । अ॒पः । म॒रुतः॑ । सु॒ऽदान॑वः । पयः॑ । घृ॒तऽव॑त् । वि॒दथे॑षु । आ॒ऽभुवः॑ । अत्य॑म् । न । मि॒हे । वि । न॒य॒न्ति॒ । वा॒जिन॑म् । उत्स॑म् । दु॒ह॒न्ति॒ । स्त॒नय॑न्तम् । अक्षि॑तम् ॥पिन्वन्ति । अपः । मरुतः । सुदानवः । पयः । घृतवत् । विदथेषु । आभुवः । अत्यम् । न । मिहे । वि । नयन्ति । वाजिनम् । उत्सम् । दुहन्ति । स्तनयन्तम् । अक्षितम् ॥pinvanti | apaḥ | marutaḥ | su-dānavaḥ | payaḥ | ghṛta-vat | vidatheṣu | ābhuvaḥ | atyam | na | mihe | vi | nayanti | vājinam | utsam | duhanti | stanayantam | akṣitam