Sukta 1.64
ईशानकृतो धुनयो रिशादसो वातान्विद्युतस्तविषीभिरक्रत । दुहन्त्यूधर्दिव्यानि धूतयो भूमिं पिन्वन्ति पयसा परिज्रयः ॥
ई॒शा॒न॒कृतो॒ धुन॑यो रि॒शाद॑सो॒ वाता॑न्वि॒द्युत॒स्तवि॑षीभिरक्रत । दु॒हन्त्यूध॑र्दि॒व्यानि॒ धूत॑यो॒ भूमिं॑ पिन्वन्ति॒ पय॑सा॒ परि॑ज्रयः ॥
īśāna-kṛ́to dhúnayo riśā́daso vātā́n vi-dyútaḥ táviṣībhir akrata | duhánty ū́dhar divyā́ni dhūtáyo bhū́miṃ pinvanti páyasā pári-jrayaḥ ||
Mighty in their making, the roaring ones, devourers of resistance, have fashioned the winds and the lightnings by their strengths. The impelling powers milk the heavenly udders; they swell the earth with the streams of plenitude as they move around it.
ई॒शा॒न॒ऽकृतः॑ । धुन॑यः । रि॒शाद॑सः । वाता॑न् । वि॒ऽद्युतः॑ । तवि॑षीभिः । अ॒क्र॒त॒ । दु॒हन्ति॑ । ऊधः॑ । दि॒व्यानि॑ । धूत॑यः । भूमि॑म् । पि॒न्व॒न्ति॒ । पय॑सा । परि॑ऽज्रयः ॥ईशानकृतः । धुनयः । रिशादसः । वातान् । विद्युतः । तविषीभिः । अक्रत । दुहन्ति । ऊधः । दिव्यानि । धूतयः । भूमिम् । पिन्वन्ति । पयसा । परिज्रयः ॥īśāna-kṛtaḥ | dhunayaḥ | riśādasaḥ | vātān | vi-dyutaḥ | taviṣībhiḥ | akrata | duhanti | ūdhaḥ | divyāni | dhūtayaḥ | bhūmim | pinvanti | payasā | pari-jrayaḥ