Sukta 1.64
चित्रैरञ्जिभिर्वपुषे व्यञ्जते वक्षस्सु रुक्माँ अधि येतिरे शुभे । अंसेष्वेषां नि मिमृक्षुॠष्टयः साकं जज्ञिरे स्वधया दिवो नरः ॥
चि॒त्रैर॒ञ्जिभि॒र्वपु॑षे॒ व्य॑ञ्जते॒ वक्ष॑स्सु रु॒क्माँ अधि॑ येतिरे शु॒भे । अंसे॑ष्वेषां॒ नि मि॑मृक्षुॠ॒ष्टय॑: सा॒कं ज॑ज्ञिरे स्व॒धया॑ दि॒वो नर॑: ॥
citrā́ir añjíbhir vápuṣe ví añjate vákṣas-su rukmā́m̐ ádhi yetire śubhé | áṃseṣv eṣāṃ ní mimṛkṣu ṛṣṭáyaḥ sā́kaṃ jajñire svadháyā divó náraḥ ||
With bright ornaments they adorn their form; upon their breasts the golden splendors move for beauty. On their shoulders the spears are set firm; together, by their own inner power, those men of Heaven are born into one accord.
चि॒त्रैः । अ॒ञ्जिऽभिः॑ । वपु॑षे । वि । अ॒ञ्ज॒ते॒ । वक्षः॑ऽसु । रु॒क्मान् । अधि॑ । ये॒ति॒रे॒ । शु॒भे । अंसे॑षु । ए॒षा॒म् । नि । मि॒मृ॒क्षुः॒ । ऋ॒ष्टयः॑ । सा॒कम् । ज॒ज्ञि॒रे॒ । स्व॒धया॑ । दि॒वः । नरः॑ ॥चित्रैः । अञ्जिभिः । वपुषे । वि । अञ्जते । वक्षःसु । रुक्मान् । अधि । येतिरे । शुभे । अंसेषु । एषाम् । नि । मिमृक्षुः । ऋष्टयः । साकम् । जज्ञिरे । स्वधया । दिवः । नरः ॥citraiḥ | añji-bhiḥ | vapuṣe | vi | añjate | vakṣaḥ-su | rukmān | adhi | yetire | śubhe | aṃseṣu | eṣām | ni | mimṛkṣuḥ | ṛṣṭayaḥ | sākam | jajñire | svadhayā | divaḥ | naraḥ