Sukta 1.64
युवानो रुद्रा अजरा अभोग्घनो ववक्षुरध्रिगावः पर्वता इव । दृळ्हा चिद्विश्वा भुवनानि पार्थिवा प्र च्यावयन्ति दिव्यानि मज्मना ॥
युवा॑नो रु॒द्रा अ॒जरा॑ अभो॒ग्घनो॑ वव॒क्षुरध्रि॑गाव॒: पर्व॑ता इव । दृ॒ळ्हा चि॒द्विश्वा॒ भुव॑नानि॒ पार्थि॑वा॒ प्र च्या॑वयन्ति दि॒व्यानि॑ म॒ज्मना॑ ॥
yúvāno rudrā́ ajárā abhoggháno vavakṣúr ádhri-gāvaḥ párvatā iva | dṛḷhā́ cid víśvā bhúvanāni pārthivā́ prá cyāvayanti divyā́ni májmanā ||
Young Rudras they are, unaging, unwearied in enjoyment of force; bearing their strength, steadfast as mountains. By their greatness they set even the firm earthly habitations in motion and shake the divine worlds into a new ordering.
युवा॑नः । रु॒द्राः । अ॒जराः॑ । अ॒भो॒क्ऽहनः॑ । व॒व॒क्षुः । अध्रि॑ऽगावः । पर्व॑ताःऽइव । दृ॒ळ्हा । चि॒त् । विश्वा॑ । भुव॑नानि । पार्थि॑वा । प्र । च्या॒व॒य॒न्ति॒ । दि॒व्यानि॑ । म॒ज्मना॑ ॥युवानः । रुद्राः । अजराः । अभोक्हनः । ववक्षुः । अध्रिगावः । पर्वताःइव । दृळ्हा । चित् । विश्वा । भुवनानि । पार्थिवा । प्र । च्यावयन्ति । दिव्यानि । मज्मना ॥yuvānaḥ | rudrāḥ | ajarāḥ | abhok-hanaḥ | vavakṣuḥ | adhri-gāvaḥ | parvatāḥ-iva | dṛḷhā | cit | viśvā | bhuvanāni | pārthivā | pra | cyāvayanti | divyāni | majmanā