Sukta 1.64
ते जज्ञिरे दिव ऋष्वास उक्षणो रुद्रस्य मर्या असुरा अरेपसः । पावकासः शुचयः सूर्या इव सत्वानो न द्रप्सिनो घोरवर्पसः ॥
ते ज॑ज्ञिरे दि॒व ऋ॒ष्वास॑ उ॒क्षणो॑ रु॒द्रस्य॒ मर्या॒ असु॑रा अरे॒पस॑: । पा॒व॒कास॒: शुच॑य॒: सूर्या॑ इव॒ सत्वा॑नो॒ न द्र॒प्सिनो॑ घो॒रव॑र्पसः ॥
té jajñire divá ṛṣvā́sa ukṣáṇo rudrásya már yā ásurā arepásaḥ | pāvakā́saḥ śúcayaḥ sū́ryā iva sátvāno ná drapsíno ghóravarpasaḥ ||
They are born from Heaven—lofty, bull-like powers, the young heroes of Rudra, masters of the breath of force, without stain. Pure and bright like suns, they are beings of intense substance, like gleaming drops, formidable in their forms.
ते । ज॒ज्ञि॒रे॒ । दि॒वः । ऋ॒ष्वासः॑ । उ॒क्षणः॑ । रु॒द्रस्य॑ । मर्या॑ । असु॑राः । अ॒रे॒पसः॑ । पा॒व॒कासः॒ । शुच॑यः । सूर्याः॑ऽइव । सत्वा॑नः । न । द्र॒प्सिनः॑ । घो॒रऽव॑र्पसः ॥ते । जज्ञिरे । दिवः । ऋष्वासः । उक्षणः । रुद्रस्य । मर्या । असुराः । अरेपसः । पावकासः । शुचयः । सूर्याःइव । सत्वानः । न । द्रप्सिनः । घोरवर्पसः ॥te | jajñire | divaḥ | ṛṣvāsaḥ | ukṣaṇaḥ | rudrasya | maryā | asurāḥ | arepasaḥ | pāvakāsaḥ | śucayaḥ | sūryāḥ-iva | satvānaḥ | na | drapsinaḥ | ghora-varpasaḥ