Sukta 1.64
चर्कृत्यं मरुतः पृत्सु दुष्टरं द्युमन्तं शुष्मं मघवत्सु धत्तन । धनस्पृतमुक्थ्यं विश्वचर्षणिं तोकं पुष्येम तनयं शतं हिमाः ॥
च॒र्कृत्यं॑ मरुतः पृ॒त्सु दु॒ष्टरं॑ द्यु॒मन्तं॒ शुष्मं॑ म॒घव॑त्सु धत्तन । ध॒न॒स्पृत॑मु॒क्थ्यं॑ वि॒श्वच॑र्षणिं तो॒कं पु॑ष्येम॒ तन॑यं श॒तं हिमा॑: ॥
carkṛ́tyaṃ marutaḥ pṛtsú dúṣṭaraṃ dyumántaṃ śúṣmaṃ maghávatsu dhattana | dhanaspŕ̥tam ukthyàṃ viśvácarṣaṇiṃ tókaṃ puṣyema tánayaṃ śatáṃ hímāḥ ||
O Maruts, set within the givers a luminous force that is hard to overcome in the battles; establish the shining intensity. May we foster the ‘treasure-winning’ and hymn-worthy power that upholds all peoples; may we nurture our inner lineage—child and seed—through a hundred winters.
च॒र्कृत्य॑म् । म॒रु॒तः॒ । पृ॒त्ऽसु । दु॒स्तर॑म् । द्यु॒ऽमन्त॑म् । शुष्म॑म् । म॒घव॑त्ऽसु । ध॒त्त॒न॒ । ध॒न॒ऽस्पृत॑म् । उ॒क्थ्य॑म् । वि॒श्वऽच॑र्षणिम् । तो॒कम् । पु॒ष्ये॒म॒ । तन॑यम् । श॒तम् । हिमाः॑ ॥चर्कृत्यम् । मरुतः । पृत्सु । दुस्तरम् । द्युमन्तम् । शुष्मम् । मघवत्सु । धत्तन । धनस्पृतम् । उक्थ्यम् । विश्वचर्षणिम् । तोकम् । पुष्येम । तनयम् । शतम् । हिमाः ॥carkṛtyam | marutaḥ | pṛt-su | dustaram | dyu-mantam | śuṣmam | maghavat-su | dhattana | dhana-spṛtam | ukthyam | viśva-carṣaṇim | tokam | puṣyema | tanayam | śatam | himāḥ