Sukta 1.64
प्र नू स मर्तः शवसा जनाँ अति तस्थौ व ऊती मरुतो यमावत । अर्वद्भिर्वाजं भरते धना नृभिरापृच्छ्यं क्रतुमा क्षेति पुष्यति ॥
प्र नू स मर्त॒: शव॑सा॒ जनाँ॒ अति॑ त॒स्थौ व॑ ऊ॒ती म॑रुतो॒ यमाव॑त । अर्व॑द्भि॒र्वाजं॑ भरते॒ धना॒ नृभि॑रा॒पृच्छ्यं॒ क्रतु॒मा क्षे॑ति॒ पुष्य॑ति ॥
prá nū́ sá martáḥ śávasā jánā̃ áti tasthau va ūtī́ maruto yám ā́vat | árvadbhiḥ vā́jaṃ bharate dhánā nṛ́bhir ā́pṛcchyaṃ krátum ā́ kṣeti púṣyati ||
Now that mortal indeed advances beyond the common run of men by strength—he whom you, O Maruts, uphold by your help. With swift steeds he bears the plenitude of force and the riches; with the energies of the soul he attains a will that can be consulted, and he dwells and increases.
प्र । नु । सः । मर्तः॑ । शव॑सा । जना॑न् । अति॑ । त॒स्थौ । वः॒ । ऊ॒ती । म॒रुतः॑ । यम् । आव॑त । अर्व॑त्ऽभिः॑ । वाज॑म् । भ॒र॒ते॒ । धना॑ । नृऽभिः॑ । आ॒ऽपृच्छ्य॑म् । क्रतु॑म् । आ । क्षे॒ति॒ । पुष्य॑ति ॥प्र । नु । सः । मर्तः । शवसा । जनान् । अति । तस्थौ । वः । ऊती । मरुतः । यम् । आवत । अर्वत्भिः । वाजम् । भरते । धना । नृभिः । आपृच्छ्यम् । क्रतुम् । आ । क्षेति । पुष्यति ॥pra | nu | saḥ | martaḥ | śavasā | janān | ati | tasthau | vaḥ | ūtī | marutaḥ | yam | āvata | arvat-bhiḥ | vājam | bharate | dhanā | nṛ-bhiḥ | āpṛcchyam | kratum | ā | kṣeti | puṣyati