Sukta 1.64
नू ष्ठिरं मरुतो वीरवन्तमृतीषाहं रयिमस्मासु धत्त । सहस्रिणं शतिनं शूशुवांसं प्रातर्मक्षू धियावसुर्जगम्यात् ॥
नू ष्ठि॒रं म॑रुतो वी॒रव॑न्तमृती॒षाहं॑ र॒यिम॒स्मासु॑ धत्त । स॒ह॒स्रिणं॑ श॒तिनं॑ शूशु॒वांसं॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
nū́ ṣṭhíraṃ maruto vīrávantaṃ ṛtīṣā́haṃ rayím asmā́su dhatta | sahasríṇaṃ śatínaṃ śūśuvā́ṃsaṃ prātár makṣū́ dhiyā́vasur jagamyāt ||
Now, O Maruts, place in us a firm wealth—full of heroic power and able to endure the pressures of the right path. A thousand-fold, a hundred-fold, growing by practice: may the wealth of inspired thought come swiftly to us from the early dawning.
नु । स्थि॒रम् । म॒रु॒तः॒ । वी॒रऽव॑न्तम् । ऋ॒ति॒ऽसह॑म् । र॒यिम् । अ॒स्मासु॑ । ध॒त्त॒ । स॒ह॒स्रिण॑म् । श॒तिन॑म् । शू॒शु॒ऽवांस॑म् । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥नु । स्थिरम् । मरुतः । वीरवन्तम् । ऋतिसहम् । रयिम् । अस्मासु । धत्त । सहस्रिणम् । शतिनम् । शूशुवांसम् । प्रातः । मक्षु । धियावसुः । जगम्यात् ॥nu | sthiram | marutaḥ | vīra-vantam | ṛti-saham | rayim | asmāsu | dhatta | sahasriṇam | śatinam | śūśu-vāṃsam | prātaḥ | makṣu | dhiyāvasuḥ | jagamyāt