Sukta 1.64
घृषुं पावकं वनिनं विचर्षणिं रुद्रस्य सूनुं हवसा गृणीमसि । रजस्तुरं तवसं मारुतं गणमृजीषिणं वृषणं सश्चत श्रिये ॥
घृषुं॑ पाव॒कं व॒निनं॒ विच॑र्षणिं रु॒द्रस्य॑ सू॒नुं ह॒वसा॑ गृणीमसि । र॒ज॒स्तुरं॑ त॒वसं॒ मारु॑तं ग॒णमृ॑जी॒षिणं॒ वृष॑णं सश्चत श्रि॒ये ॥
ghṛ́ṣuṃ pāvakáṃ vanínaṃ vícarṣaṇiṃ rudrásya sūnúṃ hávasā gṛṇīmasi | rajásturaṃ tavásaṃ mā́rutaṃ gaṇám ṛjīṣíṇaṃ vṛ́ṣaṇaṃ saścata śríye ||
We affirm with the soul’s call the flaming-pure, the delight-bringing, the wide-seeing Son of Rudra. O powerful Marut-host, swift through the mid-worlds, straight-driving and bull-like in force—move with us toward the increase of inner splendour.
घृषु॑म् । पा॒व॒कम् । व॒निन॑म् । विऽच॑र्षणिम् । रु॒द्रस्य॑ । सू॒नुम् । ह॒वसा॑ । गृ॒णी॒म॒सि॒ । र॒जः॒ऽतुर॑म् । त॒वस॑म् । मारु॑तम् । ग॒णम् । ऋ॒जी॒षिण॑म् । वृष॑णम् । स॒श्च॒त॒ । श्रि॒ये ॥घृषुम् । पावकम् । वनिनम् । विचर्षणिम् । रुद्रस्य । सूनुम् । हवसा । गृणीमसि । रजःतुरम् । तवसम् । मारुतम् । गणम् । ऋजीषिणम् । वृषणम् । सश्चत । श्रिये ॥ghṛṣum | pāvakam | vaninam | vi-carṣaṇim | rudrasya | sūnum | havasā | gṛṇīmas i | rajaḥ-turam | tavasam | mārutam | gaṇam | ṛjīṣiṇam | vṛṣaṇam | saścata | śriye