Sukta 1.64
हिरण्ययेभिः पविभिः पयोवृध उज्जिघ्नन्त आपथ्यो न पर्वतान् । मखा अयासः स्वसृतो ध्रुवच्युतो दुध्रकृतो मरुतो भ्राजदृष्टयः ॥
हि॒र॒ण्यये॑भिः प॒विभि॑: पयो॒वृध॒ उज्जि॑घ्नन्त आप॒थ्यो॒३॒॑ न पर्व॑तान् । म॒खा अ॒यास॑: स्व॒सृतो॑ ध्रुव॒च्युतो॑ दुध्र॒कृतो॑ म॒रुतो॒ भ्राज॑दृष्टयः ॥
hiraṇyayébhiḥ pavíbhiḥ payovṛ́dha ujjíghnanta āpathyò na párvatān | makhā́ ayā́saḥ svasṛ́to dhruvacyúto dudhrakṛ́to marúto bhrā́jadṛṣṭayaḥ ||
With golden-edged powers, increasers of the soul’s sap, the Maruts strike upward and cleave the obstructing masses as if they were pathless mountains. These joyous, tireless ones, self-driven and unshaken in their onset, fashion firm intensities; the Maruts, with flashing spears, make the vision blaze.
हि॒र॒ण्यये॑भिः । प॒विऽभिः॑ । प॒यः॒ऽवृधः॑ । उत् । जि॒घ्न॒न्ते॒ । आ॒ऽप॒थ्यः॑ । न । पर्व॑तान् । म॒खाः । अ॒यासः॑ । स्व॒ऽसृतः॑ । ध्रु॒व॒ऽच्युतः॑ । दु॒ध्र॒ऽकृतः॑ । म॒रुतः॑ । भ्राज॑त्ऽऋष्टयः ॥हिरण्ययेभिः । पविभिः । पयःवृधः । उत् । जिघ्नन्ते । आपथ्यः । न । पर्वतान् । मखाः । अयासः । स्वसृतः । ध्रुवच्युतः । दुध्रकृतः । मरुतः । भ्राजत्ऋष्टयः ॥hiraṇyayebhiḥ | pavi-bhiḥ | payaḥ-vṛdhaḥ | ut | jighnante | āpathyaḥ | na | parvatān | makhāḥ | ayāsaḥ | sva-sṛtaḥ | dhruva-cyutaḥ | dudhra-kṛtaḥ | marutaḥ | bhrājat-ṛṣṭayaḥ