Sukta 1.61
अस्येदेव प्र रिरिचे महित्वं दिवस्पृथिव्याः पर्यन्तरिक्षात् । स्वराळिन्द्रो दम आ विश्वगूर्तः स्वरिरमत्रो ववक्षे रणाय ॥
अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वं दि॒वस्पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात् । स्व॒राळिन्द्रो॒ दम॒ आ वि॒श्वगू॑र्तः स्व॒रिरम॑त्रो ववक्षे॒ रणा॑य ॥
asyédeva prá ririce mahitváṃ divás pṛthivyā́ḥ páry antárikṣāt | svarā́ḷ índro dáma ā́ viśvá-gūrtaḥ su-aríḥ ámatro vavakṣe ráṇāya ||
Indeed, of him this greatness overflows—encircling Heaven and Earth and reaching through the mid-world. Indra, self-ruling, established in the home of the being, upheld by all impulses of the universal, the good fighter, undiminished in force, grows vast for the battle—towards the victory of the Light.
अ॒स्य । इत् । ए॒व । प्र । रि॒रि॒चे॒ । म॒हि॒त्वम् । दि॒वः । पृ॒थि॒व्याः । परि॑ । अ॒न्तरि॑क्षात् । स्व॒ऽराट् । इन्द्रः॑ । दमे॑ । आ । वि॒श्वऽगू॑र्तः । सु॒ऽअ॒रिः । अम॑त्रः । व॒व॒क्षे॒ । रणा॑य ॥अस्य । इत् । एव । प्र । रिरिचे । महित्वम् । दिवः । पृथिव्याः । परि । अन्तरिक्षात् । स्वराट् । इन्द्रः । दमे । आ । विश्वगूर्तः । सुअरिः । अमत्रः । ववक्षे । रणाय ॥asya | it | eva | pra | ririce | mahitvam | divaḥ | pṛthivyāḥ | pari | antarikṣāt | sva-rāṭ | indraḥ | dame | ā | viśva-gūrtaḥ | su-ariḥ | amatraḥ | vavakṣe | raṇāya