Sukta 1.61
अस्येदेव शवसा शुषन्तं वि वृश्चद्वज्रेण वृत्रमिन्द्रः । गा न व्राणा अवनीरमुञ्चदभि श्रवो दावने सचेताः ॥
अ॒स्येदे॒व शव॑सा शु॒षन्तं॒ वि वृ॑श्च॒द्वज्रे॑ण वृ॒त्रमिन्द्र॑: । गा न व्रा॒णा अ॒वनी॑रमुञ्चद॒भि श्रवो॑ दा॒वने॒ सचे॑ताः ॥
asyédeva śávasā śuṣántaṃ ví vṛścad vájreṇa vṛtrám índraḥ | gā́ na vrāṇā́ avánīr amuñcad abhí śrávo dāváne sá-cetāḥ ||
By this very force he hewed apart the withering Obstructor with the thunderbolt—Indra. And he released the fertile grounds, as rays (cows) freed from wounding constraint, for the giving of the inspired hearing and the fame of the soul—awake and consenting in consciousness.
अ॒स्य । इत् । ए॒व । शव॑सा । शु॒षन्तम् । वि । वृ॒श्च॒त् । वज्रे॑ण । वृ॒त्रम् । इन्द्रः॑ । गाः । न । व्रा॒णाः । अ॒वनीः॑ । अ॒मु॒ञ्च॒त् । अ॒भि । श्रवः॑ । दा॒वने॑ । सऽचे॑ताः ॥अस्य । इत् । एव । शवसा । शुषन्तम् । वि । वृश्चत् । वज्रेण । वृत्रम् । इन्द्रः । गाः । न । व्राणाः । अवनीः । अमुञ्चत् । अभि । श्रवः । दावने । सचेताः ॥asya | it | eva | śavasā | śuṣantam | vi | vṛścat | vajreṇa | vṛtram | indraḥ | gāḥ | na | vrāṇāḥ | avanīḥ | amuñcat | abhi | śravaḥ | dāvane | sa-cetāḥ