Sukta 1.61
अस्मा इदु ग्नाश्चिद्देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः । परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानं परि ष्टः ॥
अ॒स्मा इदु॒ ग्नाश्चि॑द्दे॒वप॑त्नी॒रिन्द्रा॑या॒र्कम॑हि॒हत्य॑ ऊवुः । परि॒ द्यावा॑पृथि॒वी ज॑भ्र उ॒र्वी नास्य॒ ते म॑हि॒मानं॒ परि॑ ष्टः ॥
asmā́ íd u gnā́ś cid devápatnīr índrāyārkám ahihátya ūvuḥ | pári dyā́vā-pṛthivī́ jabhre urvī́ nā́sya te mahimā́naṃ pári staḥ ||
For him even the divine Mothers, the goddesses, voiced the flaming chant for Indra in the slaying of the serpent-obstruction. Wide Heaven and Earth encompassed him; yet they do not encompass your greatness—your vastness exceeds the frame of the worlds.
अ॒स्मै । इत् । ऊँ॒ इति॑ । ग्नाः । चि॒त् । दे॒वऽप॑त्नीः । इन्द्रा॑य । अ॒र्कम् । अ॒हि॒ऽहत्ये॑ । ऊ॒वु॒रित्यू॑वुः । परि॑ । द्यावा॑पृथि॒वी इति॑ । ज॑भ्रे॒ । उ॒र्वी इति॑ । न । अ॒स्य॒ । ते इति॑ । म॒हि॒मान॑म् । परि॑ । स्त॒ इति॑ स्तः ॥अस्मै । इत् । ऊँ इति । ग्नाः । चित् । देवपत्नीः । इन्द्राय । अर्कम् । अहिहत्ये । ऊवुरित्यूवुः । परि । द्यावापृथिवी इति । जभ्रे । उर्वी इति । न । अस्य । ते इति । महिमानम् । परि । स्त इति स्तः ॥asmai | it | oṃ iti | gnāḥ | cit | deva-patnīḥ | indrāya | arkam | ahi-hatye | ūvur ity ūvuḥ | pari | dyāvāpṛthivī iti | jabhre | urvī iti | na | asya | te iti | mahimānam | pari | staitistaḥ