Sukta 1.61
अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवाञ्चार्वन्ना । मुषायद्विष्णुः पचतं सहीयान्विध्यद्वराहं तिरो अद्रिमस्ता ॥
अ॒स्येदु॑ मा॒तुः सव॑नेषु स॒द्यो म॒हः पि॒तुं प॑पि॒वाञ्चार्वन्ना॑ । मु॒षा॒यद्विष्णु॑: पच॒तं सही॑या॒न्विध्य॑द्वरा॒हं ति॒रो अद्रि॒मस्ता॑ ॥
asyéd u mātúḥ sávanesu sadyó máhaḥ pítuṃ papivā́ñ cā́rv annā́ | muṣā́yad víṣṇuḥ pacatáṃ sahīyā́n vídhyad varā́haṃ tiró ádrim ástā ||
Even as soon as he was born, in his mother’s pressings, he drank the great delight, the lovely food. Strong Viṣṇu stole the cooking; he pierced the boar, casting him beyond the rock—an image of the power that breaks through the stony cover and releases the hidden nourishment of light.
अ॒स्य । इत् । ऊँ॒ इति॑ । मा॒तुः । सव॑नेषु । स॒द्यः । म॒हः । पि॒तुम् । प॒पि॒वान् । चारु॑ । अन्ना॑ । मु॒षा॒यत् । विष्णुः॑ । प॒च॒तम् । सही॑यान् । विध्य॑त् । व॒रा॒हम् । ति॒रः । अद्रि॑म् । अस्ता॑ ॥अस्य । इत् । ऊँ इति । मातुः । सवनेषु । सद्यः । महः । पितुम् । पपिवान् । चारु । अन्ना । मुषायत् । विष्णुः । पचतम् । सहीयान् । विध्यत् । वराहम् । तिरः । अद्रिम् । अस्ता ॥asya | it | oṃ iti | mātuḥ | savaneṣu | sadyaḥ | mahaḥ | pitum | papivān | cāru | annā | muṣāyat | viṣṇuḥ | pacatam | sahīyān | vidhyat | varāham | tiraḥ | adrim | astā