Sukta 1.61
अस्मा इदु त्वष्टा तक्षद्वज्रं स्वपस्तमं स्वर्यं रणाय । वृत्रस्य चिद्विदद्येन मर्म तुजन्नीशानस्तुजता कियेधाः ॥
अ॒स्मा इदु॒ त्वष्टा॑ तक्ष॒द्वज्रं॒ स्वप॑स्तमं स्व॒र्यं१॒॑ रणा॑य । वृ॒त्रस्य॑ चिद्वि॒दद्येन॒ मर्म॑ तु॒जन्नीशा॑नस्तुज॒ता कि॑ये॒धाः ॥
asmā́ íd u tváṣṭā takṣád vájraṃ svápastamaṃ svaryáṃ raṇā́ya | vṛtrásya cid vidád yéna márma tújan nīśā́nas tujatā́ kiyedhā́ḥ ||
For him indeed Tvaṣṭṛ fashioned the thunderbolt—most perfect in work, luminous for the battle. With it he found even Vṛtra’s vital point and, pressing on as the sovereign, he smote the smiters and shattered the obstructing powers.
अ॒स्मै । इत् । ऊँ॒ इति॑ । त्वष्टा॑ । त॒क्ष॒त् । वज्र॑म् । स्वपः॑ऽतमम् । स्व॒र्य॑म् । रणा॑य । वृ॒त्रस्य॑ । चि॒त् । वि॒दत् । येन॑ । मर्म॑ । तु॒जन् । ईशा॑नः । तु॒ज॒ता । कि॒ये॒धाः ॥अस्मै । इत् । ऊँ इति । त्वष्टा । तक्षत् । वज्रम् । स्वपःतमम् । स्वर्यम् । रणाय । वृत्रस्य । चित् । विदत् । येन । मर्म । तुजन् । ईशानः । तुजता । कियेधाः ॥asmai | it | oṃ | iti | tvaṣṭā | takṣat | vajram | svapaḥ-tamam | svaryam | raṇāya | vṛtrasya | cit | vidat | yena | marma | tujan | īśānaḥ | tujatā | kiyedhāḥ