Sukta 1.61
अस्मा इदु सप्तिमिव श्रवस्येन्द्रायार्कं जुह्वा समञ्जे । वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ॥
अ॒स्मा इदु॒ सप्ति॑मिव श्रव॒स्येन्द्रा॑या॒र्कं जु॒ह्वा॒३॒॑ सम॑ञ्जे । वी॒रं दा॒नौक॑सं व॒न्दध्यै॑ पु॒रां गू॒र्तश्र॑वसं द॒र्माण॑म् ॥
asmā́ íd u sáptim iva śravasyèndrāyārkáṃ juhvā́ sám añje | vīráṃ dānókasam vandádhyai purā́ṃ gūrtá-śravasaṃ darmā́ṇam ||
For him I anoint the chant for Indra, as one harnesses a swift team for fame. To adore the Hero who dwells in the house of giving, the upholder of strongholds, the one of firmly established renown—so that the protecting power stands firm in our inner cities.
अ॒स्मै । इत् । ऊँ॒ इति॑ । सप्ति॑म्ऽइव । श्र॒व॒स्या । इन्द्रा॑य । अ॒र्कम् । जु॒ह्वा॑ । सम् । अ॒ञ्जे॒ । वी॒रम् । दा॒नऽओ॑कसम् । व॒न्दध्यै॑ । पु॒राम् । गू॒र्तऽश्र॑वसम् । द॒र्माण॑म् ॥अस्मै । इत् । ऊँ इति । सप्तिम्इव । श्रवस्या । इन्द्राय । अर्कम् । जुह्वा । सम् । अञ्जे । वीरम् । दानओकसम् । वन्दध्यै । पुराम् । गूर्तश्रवसम् । दर्माणम् ॥asmai | it | oṃ iti | saptim-iva | śravasyā | indrāya | arkam | juhvā | sam | añje | vīram | dāna-okasam | vandadhyai | purām | gūrta-śravasam | darmāṇam