Sukta 1.61
अस्मा इदु स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय । गिरश्च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वं मेधिराय ॥
अ॒स्मा इदु॒ स्तोमं॒ सं हि॑नोमि॒ रथं॒ न तष्टे॑व॒ तत्सि॑नाय । गिर॑श्च॒ गिर्वा॑हसे सुवृ॒क्तीन्द्रा॑य विश्वमि॒न्वं मेधि॑राय ॥
asmā́ íd u stómaṃ sáṃ hinomi ráthaṃ ná táṣṭeva tát-sināya | gíraś ca gírvāhase suvṛ́ktī́ndrāya viśvám-invaṃ médhirāya ||
For him I fashion and drive together the hymn, as a craftsman shapes a chariot for the onward course. I offer words and well-turned utterances to Indra, the bearer of inspired speech, the all-impelling, the wise—so the inner force moves rightly and victoriously.
अ॒स्मै । इत् । ऊँ॒ इति॑ । स्तोम॑म् । सम् । हि॒नो॒मि॒ । रथ॑म् । न । तष्टा॑ऽइव । तत्ऽसि॑नाय । गिरः॑ । च॒ । गिर्वा॑हसे । सु॒ऽवृ॒क्ति । इन्द्रा॑य । वि॒श्व॒म्ऽइ॒न्वम् । मेधि॑राय ॥अस्मै । इत् । ऊँ इति । स्तोमम् । सम् । हिनोमि । रथम् । न । तष्टाइव । तत्सिनाय । गिरः । च । गिर्वाहसे । सुवृक्ति । इन्द्राय । विश्वम्इन्वम् । मेधिराय ॥asmai | it | oṃ iti | stomam | sam | hinomi | ratham | na | taṣṭāiva | tat-sināya | giraḥ | ca | girvāhase | su-vṛkti | indrāya | viśvam-invam | medhirāya