Sukta 1.61
अस्मा इदु त्यमुपमं स्वर्षां भराम्याङ्गूषमास्येन । मंहिष्ठमच्छोक्तिभिर्मतीनां सुवृक्तिभिः सूरिं वावृधध्यै ॥
अ॒स्मा इदु॒ त्यमु॑प॒मं स्व॒र्षां भरा॑म्याङ्गू॒षमा॒स्ये॑न । मंहि॑ष्ठ॒मच्छो॑क्तिभिर्मती॒नां सु॑वृ॒क्तिभि॑: सू॒रिं वा॑वृ॒धध्यै॑ ॥
asmā́ íd u tyám upa-máṃ svaḥ-sā́ṃ bhárāmy āṅgū́ṣam āsyèna | maṃhíṣṭham ácchoktibhir matīnā́ṃ suvṛ́ktibhiḥ sū́riṃ vāvṛ́dhadhyai ||
To him I bring with my mouth the inspired chant, a supreme and incomparable power that wins the luminous heaven. With clear utterances of thought and with well-fashioned words, I seek to increase the Hero—Indra—so the inner leader grows in might within us.
अ॒स्मै । इत् । ऊँ॒ इति॑ । त्यम् । उ॒प॒ऽमम् । स्वः॒ऽसाम् । भरा॑मि । आ॒ङ्गू॒षम् । आ॒स्ये॑न । मंहि॑ष्ठम् । अच्छो॑क्तिऽभिः । म॒ती॒नाम् । सु॒वृ॒क्तिऽभिः॑ । सू॒रिम् । व॒वृ॒धध्यै॑ ॥अस्मै । इत् । ऊँ इति । त्यम् । उपमम् । स्वःसाम् । भरामि । आङ्गूषम् । आस्येन । मंहिष्ठम् । अच्छोक्तिभिः । मतीनाम् । सुवृक्तिभिः । सूरिम् । ववृधध्यै ॥asmai | it | oṃ iti | tyam | upa-mam | svaḥ-sām | bharāmi | āṅgūṣam | āsyena | maṃhiṣṭham | acchokti-bhiḥ | matīnām | suvṛkti-bhiḥ | sūrim | vavṛdhadhyai