Sukta 1.61
अस्मा इदु त्यदनु दाय्येषामेको यद्वव्ने भूरेरीशानः । प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विमावदिन्द्रः ॥
अ॒स्मा इदु॒ त्यदनु॑ दाय्येषा॒मेको॒ यद्व॒व्ने भूरे॒रीशा॑नः । प्रैत॑शं॒ सूर्ये॑ पस्पृधा॒नं सौव॑श्व्ये॒ सुष्वि॑माव॒दिन्द्र॑: ॥
asmā́ idu tyád ánu dāyi eṣā́m éko yád vávne bhū́rer ī́śānaḥ | práitáśaṃ sū́rye paspṛdhānáṃ sáuvaśvye súṣvim ā́vad índraḥ ||
To him indeed that followed gift was given—when alone, as master, he won the abundant plenitude. Indra aided the well-pressed Soma in the contest with the Sun’s steed Etaśa—so that the right swiftness might prevail.
अ॒स्मै । इत् । ऊँ॒ इति॑ । त्यत् । अनु॑ । दा॒यि॒ । ए॒षा॒म् । एकः॑ । यत् । व॒व्ने । भूरेः॑ । ईशा॑नः । प्र । एत॑शम् । सूर्ये॑ । प॒स्पृ॒धा॒नम् । सौव॑श्व्ये । सुष्वि॑म् । आ॒व॒त् । इन्द्रः॑ ॥अस्मै । इत् । ऊँ इति । त्यत् । अनु । दायि । एषाम् । एकः । यत् । वव्ने । भूरेः । ईशानः । प्र । एतशम् । सूर्ये । पस्पृधानम् । सौवश्व्ये । सुष्विम् । आवत् । इन्द्रः ॥asmai | it | oṃ iti | tyat | anu | dāyi | eṣām | ekaḥ | yat | vavne | bhūreḥ | īśānaḥ | pra | etaśam | sūrye | paspṛdhānam | sauvaśvye | suṣvim | āvat | indraḥ