Sukta 1.61
एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन् । ऐषु विश्वपेशसं धियं धाः प्रातर्मक्षू धियावसुर्जगम्यात् ॥
ए॒वा ते॑ हारियोजना सुवृ॒क्तीन्द्र॒ ब्रह्मा॑णि॒ गोत॑मासो अक्रन् । ऐषु॑ वि॒श्वपे॑शसं॒ धियं॑ धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
évā́ te hāri-yojana su-vṛ́ktī́ndra bráhmāṇi gótamāso akran | ā́ eṣú viśvá-peśasaṃ dhíyaṃ dhāḥ prātár makṣū́ dhiyā́vasur jagamyāt ||
So for you, O Indra who yoke the tawny steeds, the Gotamas have fashioned these well-woven words of power. In them set the thought that has all forms; and at dawn may the treasure of inspired intelligence swiftly come to us.
ए॒व । ते॒ । हा॒रि॒ऽयो॒ज॒न॒ । सु॒ऽवृ॒क्ति । इन्द्र॑ । ब्रह्मा॑णि । गोत॑मासः । अ॒क्र॒न् । आ । ए॒षु॒ । वि॒श्वऽपे॑शसम् । धिय॑म् । धाः॒ । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥एव । ते । हारियोजन । सुवृक्ति । इन्द्र । ब्रह्माणि । गोतमासः । अक्रन् । आ । एषु । विश्वपेशसम् । धियम् । धाः । प्रातः । मक्षु । धियावसुः । जगम्यात् ॥eva | te | hāri-yojana | su-vṛkti | indra | brahmāṇi | gotamāsaḥ | akran | ā | eṣu | viśva-peśasam | dhiyam | dhāḥ | prātaḥ | makṣu | dhiyāvasuḥ | jagamyāt