Sukta 1.6
वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः । अविन्द उस्रिया अनु ॥
वी॒ळु चि॑दारुज॒त्नुभि॒र्गुहा॑ चिदिन्द्र॒ वह्नि॑भिः । अवि॑न्द उ॒स्रिया॒ अनु॑ ॥
vīḷú cid ārujatnúbhir guhā́ cid indra váhnibhiḥ | ávinda usríyā ánu ||
O Indra, even the firm-set barrier you break with your forceful powers; even in the hidden cavern you discover and bring out, in due sequence, the luminous Rays (cows) with the flaming energies within.
वी॒ळु । चि॒त् । आ॒रु॒ज॒त्नुऽभिः॑ । गुहा॑ । चि॒त् । इ॒न्द्र॒ । वह्नि॑ऽभिः । अवि॑न्दः । उ॒स्रियाः॑ । अनु॑ ॥वीळु । चित् । आरुजत्नुभिः । गुहा । चित् । इन्द्र । वह्निभिः । अविन्दः । उस्रियाः । अनु ॥vīḷu | cit | ārujatnu-bhiḥ | guhā | cit | indra | vahni-bhiḥ | avindaḥ | usriyāḥ | anu