Sukta 1.57
प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिं भरे । अपामिव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे अपावृतम् ॥
प्र मंहि॑ष्ठाय बृह॒ते बृ॒हद्र॑ये स॒त्यशु॑ष्माय त॒वसे॑ म॒तिं भ॑रे । अ॒पामि॑व प्रव॒णे यस्य॑ दु॒र्धरं॒ राधो॑ वि॒श्वायु॒ शव॑से॒ अपा॑वृतम् ॥
prá maṃhíṣṭhāya bṛhaté bṛhádraye satyáśuṣmāya taváse matíṃ bhare | apā́m iva praváṇe yásya durdháraṃ rā́dho viśvā́yu śávase ápāvṛtam ||
Forward I bring my thought to the most bountiful, the vast, the holder of wide riches, the true of force, the strong. Like waters on a slope, his hard-to-hold abundance is poured open for the life of all, for the energy that endures.
प्र । मंहि॑ष्ठाय । बृ॒ह॒ते । बृ॒हत्ऽर॑ये । स॒त्यऽशु॑ष्माय । त॒वसे॑ । म॒तिम् । भ॒रे॒ । अ॒पाम्ऽइ॑व । प्र॒व॒णे । यस्य॑ । दुः॒ऽधर॑म् । राधः॑ । वि॒श्वऽआ॑यु । शव॑से । अप॑ऽवृतम् ॥प्र । मंहिष्ठाय । बृहते । बृहत्रये । सत्यशुष्माय । तवसे । मतिम् । भरे । अपाम्इव । प्रवणे । यस्य । दुःधरम् । राधः । विश्वआयु । शवसे । अपवृतम् ॥pra | maṃhiṣṭhāya | bṛhate | bṛhat-raye | satya-śuṣmāya | tavase | matim | bhare | apām-iva | pravaṇe | yasya | duḥ-dharam | rādhaḥ | viśva-āyu | śavase | apa-vṛtam