Sukta 1.56
वि यत्तिरो धरुणमच्युतं रजोऽतिष्ठिपो दिव आतासु बर्हणा । स्वर्मीळ्हे यन्मद इन्द्र हर्ष्याहन्वृत्रं निरपामौब्जो अर्णवम् ॥
वि यत्ति॒रो ध॒रुण॒मच्यु॑तं॒ रजोऽति॑ष्ठिपो दि॒व आता॑सु ब॒र्हणा॑ । स्व॑र्मीळ्हे॒ यन्मद॑ इन्द्र॒ हर्ष्याह॑न्वृ॒त्रं निर॒पामौ॑ब्जो अर्ण॒वम् ॥
ví yát tiró dharúṇam ácyutaṃ rájo ’tíṣṭhipo divá ātā́su barháṇā | svàrmīḷhe yán máda índra hárṣyā́han vṛtráṃ nír apā́m aubjó arṇavám ||
When you leapt beyond the firm, unshaken foundation and crossed the mid-world by your uplifting power, then in the rapture that wins the Sun (the light), O Indra, you rejoicingly struck down Vṛtra and released outward the ocean-flood of the waters.
वि । यत् । ति॒रः । ध॒रुण॑म् । अच्यु॑तम् । रजः॑ । अति॑स्थिपः । दि॒वः । आता॑सु । ब॒र्हणा॑ । स्वः॑ऽमीळ्हे । यत् । मदे॑ । इ॒न्द्र॒ । हर्ष्या॑ । अह॑न् । वृ॒त्रम् । निः । अ॒पाम् । औ॒ब्जः॒ । अ॒र्ण॒वम् ॥वि । यत् । तिरः । धरुणम् । अच्युतम् । रजः । अतिस्थिपः । दिवः । आतासु । बर्हणा । स्वःमीळ्हे । यत् । मदे । इन्द्र । हर्ष्या । अहन् । वृत्रम् । निः । अपाम् । औब्जः । अर्णवम् ॥vi | yat | tiraḥ | dharuṇam | acyutam | rajaḥ | atisthipaḥ | divaḥ | ātāsu | barhaṇā | svaḥ-mīḷhe | yat | made | indra | harṣyā | ahan | vṛtram | niḥ | apām | aubjaḥ | arṇavam