Sukta 1.56
त्वं दिवो धरुणं धिष ओजसा पृथिव्या इन्द्र सदनेषु माहिनः । त्वं सुतस्य मदे अरिणा अपो वि वृत्रस्य समया पाष्यारुजः ॥
त्वं दि॒वो ध॒रुणं॑ धिष॒ ओज॑सा पृथि॒व्या इ॑न्द्र॒ सद॑नेषु॒ माहि॑नः । त्वं सु॒तस्य॒ मदे॑ अरिणा अ॒पो वि वृ॒त्रस्य॑ स॒मया॑ पा॒ष्या॑रुजः ॥
tváṃ divó dharúṇaṃ dhiṣé ójasā pṛthivyā́ indra sádaneṣu mā́hinaḥ | tváṃ sutásya máde ariṇā ápo ví vṛtrásya samáyā pā́ṣyā arujaḥ ||
You establish by your might the firm support of heaven and, O Indra of vastness, you take your seat in the foundations of earth. You, in the ecstasy of the pressed Soma, set free the waters; you shattered the enclosing joints and fetters of Vṛtra.
त्वम् । दि॒वः । ध॒रुण॑म् । धि॒षे॒ । ओज॑सा । पृ॒थि॒व्याः । इ॒न्द्र॒ । सद॑नेषु । माहि॑नः । त्वम् । सु॒तस्य॑ । मदे॑ । अ॒रि॒णाः॒ । अ॒पः । वि । वृ॒त्रस्य॑ । स॒मया॑ । पा॒ष्या॑ । अ॒रु॒जः॒ ॥त्वम् । दिवः । धरुणम् । धिषे । ओजसा । पृथिव्याः । इन्द्र । सदनेषु । माहिनः । त्वम् । सुतस्य । मदे । अरिणाः । अपः । वि । वृत्रस्य । समया । पाष्या । अरुजः ॥tvam | divaḥ | dharuṇam | dhiṣe | ojasā | pṛthivyāḥ | indra | sadaneṣu | māhinaḥ | tvam | sutasya | made | ariṇāḥ | apaḥ | vi | vṛtrasya | samayā | pāṣyā | arujaḥ