Sukta 1.56
देवी यदि तविषी त्वावृधोतय इन्द्रं सिषक्त्युषसं न सूर्यः । यो धृष्णुना शवसा बाधते तम इयर्ति रेणुं बृहदर्हरिष्वणिः ॥
दे॒वी यदि॒ तवि॑षी॒ त्वावृ॑धो॒तय॒ इन्द्रं॒ सिष॑क्त्यु॒षसं॒ न सूर्य॑: । यो धृ॒ष्णुना॒ शव॑सा॒ बाध॑ते॒ तम॒ इय॑र्ति रे॒णुं बृ॒हद॑र्हरि॒ष्वणि॑: ॥
devī́ yádi tavíṣī tvā́vṛdhōtáya índraṃ síṣakty uṣásaṃ ná sū́ryaḥ | yó dhṛṣṇúnā śávasā bā́dhate táma íyarti réṇuṃ bṛhád arhariṣváṇiḥ ||
When the Goddess Power—your increasing might—yokes Indra for our help, as the Sun yokes the Dawn, then he who with daring force drives back the darkness sets the great dust in motion, roaring in his rush of luminous might.
दे॒वी । यदि॑ । तवि॑षी । त्वाऽवृ॑धा । ऊ॒तये॑ । इन्द्र॑म् । सिष॑क्ति । उ॒षस॑म् । न । सूर्यः॑ । यः । धृ॒ष्णुना॑ । शव॑सा । बाध॑ते । तमः॑ । इय॑र्ति । रे॒णुम् । बृ॒हत् । अ॒र्ह॒रि॒ऽस्वनिः॑ ॥देवी । यदि । तविषी । त्वावृधा । ऊतये । इन्द्रम् । सिषक्ति । उषसम् । न । सूर्यः । यः । धृष्णुना । शवसा । बाधते । तमः । इयर्ति । रेणुम् । बृहत् । अर्हरिस्वनिः ॥devī | yadi | taviṣī | tvāvṛdhā | ūtaye | indram | siṣakti | uṣasam | na | sūryaḥ | yaḥ | dhṛṣṇunā | śavasā | bādhate | tamaḥ | iyarti | reṇum | bṛhat | arhari-svani ḥ