Sukta 1.56
स तुर्वणिर्महाँ अरेणु पौंस्ये गिरेर्भृष्टिर्न भ्राजते तुजा शवः । येन शुष्णं मायिनमायसो मदे दुध्र आभूषु रामयन्नि दामनि ॥
स तु॒र्वणि॑र्म॒हाँ अ॑रे॒णु पौंस्ये॑ गि॒रेर्भृ॒ष्टिर्न भ्रा॑जते तु॒जा शव॑: । येन॒ शुष्णं॑ मा॒यिन॑माय॒सो मदे॑ दु॒ध्र आ॒भूषु॑ रा॒मय॒न्नि दाम॑नि ॥
sá turváṇir mahā́ṃ aréṇu paúṃsye girér bhṛṣṭír ná bhrājate tujā́ śávaḥ | yénā śúṣṇaṃ māyínam āyásō máde dudhrá ābhū́ṣu rā́mayann ní dā́mani ||
He, the impetuous mover, vast and dustless in his manly might, shines like the mountain’s flashing stroke—his driving force. By that power, in the ecstasy of the iron (unyielding) will, he pressed down Śuṣṇa the sorcerer, subduing him amid the onsets, fastening him in his bonds.
सः । तु॒र्वणिः॑ । म॒हान् । अ॒रे॒णु । पौंस्ये॑ । गि॒रेः । भृ॒ष्टिः । न । भ्रा॒ज॒ते॒ । तु॒जा । शवः॑ । येन॑ । शुष्ण॑म् । मा॒यिन॑म् । आ॒य॒सः । मदे॑ । दु॒ध्रः । आ॒भूषु॑ । रा॒मय॑त् । नि । दाम॑नि ॥सः । तुर्वणिः । महान् । अरेणु । पौंस्ये । गिरेः । भृष्टिः । न । भ्राजते । तुजा । शवः । येन । शुष्णम् । मायिनम् । आयसः । मदे । दुध्रः । आभूषु । रामयत् । नि । दामनि ॥saḥ | turvaṇiḥ | mahān | areṇu | paiṃsye | gireḥ | bhṛṣṭiḥ | na | bhrājate | tujā | śavaḥ | yena | śuṣṇam | māyinam | āyasaḥ | made | dudhraḥ | ābhūṣu | rāmayat | ni | dāman i