Sukta 1.56
तं गूर्तयो नेमन्निषः परीणसः समुद्रं न संचरणे सनिष्यवः । पतिं दक्षस्य विदथस्य नू सहो गिरिं न वेना अधि रोह तेजसा ॥
तं गू॒र्तयो॑ नेम॒न्निष॒: परी॑णसः समु॒द्रं न सं॒चर॑णे सनि॒ष्यव॑: । पतिं॒ दक्ष॑स्य वि॒दथ॑स्य॒ नू सहो॑ गि॒रिं न वे॒ना अधि॑ रोह॒ तेज॑सा ॥
táṃ gūrtáyo némanníṣaḥ párīṇasaḥ samudráṃ ná saṃcáraṇe saníṣyavaḥ | pátiṃ dákṣasya vidáthasya nū sáho giríṃ ná vénā ádhi roha téjasā ||
Towards him the well-guided seekers, carrying their ordained impulses of aspiration, move together as streams move to the ocean’s meeting. Now they climb to the Lord of discerning power and of the sacred session—upon the summit of force, as desirers ascend a mountain—by the blaze of his luminous energy.
तम् । गू॒र्तयः॑ । ने॒म॒न्ऽइषः॑ । परी॑णसः । स॒मु॒द्रम् । न । स॒म्ऽचर॑णे । स॒नि॒ष्यवः॑ । पति॑म् । दक्ष॑स्य । वि॒दथ॑स्य । नु । सहाः । गि॒रिम् । न । वे॒नाः । अधि॑ । रो॒ह॒ । तेज॑सा ॥तम् । गूर्तयः । नेमन्इषः । परीणसः । समुद्रम् । न । सम्चरणे । सनिष्यवः । पतिम् । दक्षस्य । विदथस्य । नु । सहाः । गिरिम् । न । वेनाः । अधि । रोह । तेजसा ॥tam | gūrtayaḥ | neman-iṣaḥ | parīṇasaḥ | samudram | na | sam-caraṇe | san iṣyavaḥ | patim | dakṣasya | vidathasya | nu | sahāḥ | girim | na | venāḥ | adhi | roha | tejasā