Sukta 1.56
एष प्र पूर्वीरव तस्य चम्रिषोऽत्यो न योषामुदयंस्त भुर्वणिः । दक्षं महे पाययते हिरण्ययं रथमावृत्या हरियोगमृभ्वसम् ॥
ए॒ष प्र पू॒र्वीरव॒ तस्य॑ च॒म्रिषोऽत्यो॒ न योषा॒मुद॑यंस्त भु॒र्वणि॑: । दक्षं॑ म॒हे पा॑ययते हिर॒ण्ययं॒ रथ॑मा॒वृत्या॒ हरि॑योग॒मृभ्व॑सम् ॥
eṣá prá pūrvī́r áva tásya camríṣo’tyó na yóṣām úd ayaṃsta bhurváṇiḥ | dákṣaṃ mahé pāyayate hiraṇyáyaṃ rátham āvṛ́tya hári-yogam ṛ́bhvasam ||
This one drives forward the ancient powers; like a steed he rises up from the covering, the swift mover. He makes the golden skill drink for the Great; turning the chariot—yoked with the tawny ones—he advances in a masterful fashioning.
ए॒षः । प्र । पू॒र्वीः । अव॑ । तस्य॑ । च॒म्रिषः॑ । अत्यः॑ । न । योषा॑म् । उत् । अ॒यं॒स्त॒ । भु॒र्वणिः॑ । दक्ष॑म् । म॒हे । पा॒य॒य॒ते॒ । हि॒र॒ण्ययम् । रथ॑म् । आ॒ऽवृत्य॑ । हरि॑ऽयोगम् । ऋभ्व॑सम् ॥एषः । प्र । पूर्वीः । अव । तस्य । चम्रिषः । अत्यः । न । योषाम् । उत् । अयंस्त । भुर्वणिः । दक्षम् । महे । पाययते । हिरण्ययम् । रथम् । आवृत्य । हरियोगम् । ऋभ्वसम् ॥eṣaḥ | pra | pūrvīḥ | ava | tasya | camriṣaḥ | atyaḥ | na | yoṣām | ut | ayaṃsta | bhurvaṇiḥ | dakṣam | mahe | pāyayate | hiraṇyayam | ratham | āvṛtya | hari-yogam | ṛbhvasam