Sukta 1.53
त्वमेताञ्जनराज्ञो द्विर्दशाबन्धुना सुश्रवसोपजग्मुषः । षष्टिं सहस्रा नवतिं नव श्रुतो नि चक्रेण रथ्या दुष्पदावृणक् ॥
त्वमे॒ताञ्ज॑न॒राज्ञो॒ द्विर्दशा॑ब॒न्धुना॑ सु॒श्रव॑सोपज॒ग्मुष॑: । ष॒ष्टिं स॒हस्रा॑ नव॒तिं नव॑ श्रु॒तो नि च॒क्रेण॒ रथ्या॑ दु॒ष्पदा॑वृणक् ॥
tvám etā́ñ jana-rā́jño dvír dáśā́bandhunā su-śrávasā upa-jágmuṣaḥ | ṣaṣṭíṃ sahásrā navatíṃ náva śrutó ní cakréṇa rathyā́ duḥpádā avṛṇak ||
You made these people-kings—twice ten—who came against Suśravas though he seemed without support, into a difficult footing; you overthrew the famed host—sixty thousand, ninety and nine—by the wheel of the chariot: thus you confound the massed powers of ignorance.
त्वम् । ए॒तान् । ज॒न॒ऽराज्ञः॑ । द्विः । दश॑ । अ॒ब॒न्धुना॑ । सु॒ऽश्रव॑सा । उ॒प॒ऽज॒ग्मुषः॑ । ष॒ष्टिम् । स॒हस्रा॑ । न॒व॒तिम् । नव॑ । श्रु॒तः । नि । च॒क्रेण॑ । रथ्या॑ । दुः॒ऽपदा॑ । अ॒वृ॒ण॒क् ॥त्वम् । एतान् । जनराज्ञः । द्विः । दश । अबन्धुना । सुश्रवसा । उपजग्मुषः । षष्टिम् । सहस्रा । नवतिम् । नव । श्रुतः । नि । चक्रेण । रथ्या । दुःपदा । अवृणक् ॥tvam | etān | jana-rājñaḥ | dviḥ | daśa | abandhunā | su-śravasā | upa-jagmuṣaḥ | ṣaṣṭim | sahasrā | navatim | nava | śrutaḥ | ni | cakreṇa | rathyā | duḥ-padā | avṛṇak