Sukta 1.53
त्वमाविथ सुश्रवसं तवोतिभिस्तव त्रामभिरिन्द्र तूर्वयाणम् । त्वमस्मै कुत्समतिथिग्वमायुं महे राज्ञे यूने अरन्धनायः ॥
त्वमा॑विथ सु॒श्रव॑सं॒ तवो॒तिभि॒स्तव॒ त्राम॑भिरिन्द्र॒ तूर्व॑याणम् । त्वम॑स्मै॒ कुत्स॑मतिथि॒ग्वमा॒युं म॒हे राज्ञे॒ यूने॑ अरन्धनायः ॥
tvám āvitha su-śrávasaṃ tavótibhis táva trā́mabhir indra tū́rvayāṇam | tvám asmai kútsam atithi-gvám āyúṃ mahé rā́jñe yū́ne arandhanāyaḥ ||
You have protected Suśravas by your helps, and Tūrvayāṇa by your saving powers, O Indra. You gave to him Kutsā, Atithigva, and Āyu as companions and instruments, for the great king, for the young one—so that he might be made unconquerable in the inner march.
त्वम् । आ॒वि॒थ॒ । सु॒ऽश्रव॑सम् । तव॑ । ऊ॒तिऽभिः॑ । तव॑ । त्राम॑ऽभिः । इ॒न्द्र॒ । तूर्व॑याणम् । त्वम् । अ॒स्मै॒ । कुत्स॑म् । अ॒ति॒थि॒ऽग्वम् । आ॒युम् । म॒हे । राज्ञे॑ । यूने॑ । अ॒र॒न्ध॒ना॒यः॒ ॥त्वम् । आविथ । सुश्रवसम् । तव । ऊतिभिः । तव । त्रामभिः । इन्द्र । तूर्वयाणम् । त्वम् । अस्मै । कुत्सम् । अतिथिग्वम् । आयुम् । महे । राज्ञे । यूने । अरन्धनायः ॥tvam | āvitha | su-śravasam | tava | ūti-bhiḥ | tava | trāma-bhiḥ | indra | tūrvayāṇam | tvam | asmai | kutsam | atithi-gvam | āyum | mahe | rājñe | yūne | arandhanāyaḥ