Sukta 1.53
ते त्वा मदा अमदन्तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते । यत्कारवे दश वृत्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः ॥
ते त्वा॒ मदा॑ अमद॒न्तानि॒ वृष्ण्या॒ ते सोमा॑सो वृत्र॒हत्ये॑षु सत्पते । यत्का॒रवे॒ दश॑ वृ॒त्राण्य॑प्र॒ति ब॒र्हिष्म॑ते॒ नि स॒हस्रा॑णि ब॒र्हय॑: ॥
té tvā madā́ amadan tā́ni vṛ́ṣṇyā té sómāso vṛtra-hátyeṣu sat-pate | yát kāráve dáśa vṛtrā́ṇy apratí barhíṣmate ní sahásrāṇi barháyaḥ ||
Those ecstasies have intoxicated you—those bull-like powers; those Soma-pressings, O lord of truth (satpati), in the battles of the Coverer. When, for the singer who spreads the sacred seat (barhis), you cast down a thousand barriers, and ten resistless obstructions.
ते । त्वा॒ । मदाः॑ । अ॒म॒द॒न् । तानि॑ । वृष्ण्या॑ । ते । सोमा॑सः । वृ॒त्र॒ऽहत्ये॑षु । स॒त्ऽप॒ते॒ । यत् । का॒रवे॑ । दश॑ । वृ॒त्राणि॑ । अ॒प्र॒ति । ब॒र्हिष्म॑ते । नि । स॒हस्रा॑णि । ब॒र्हयः॑ ॥ते । त्वा । मदाः । अमदन् । तानि । वृष्ण्या । ते । सोमासः । वृत्रहत्येषु । सत्पते । यत् । कारवे । दश । वृत्राणि । अप्रति । बर्हिष्मते । नि । सहस्राणि । बर्हयः ॥te | tvā | madāḥ | amadan | tāni | vṛṣṇyā | te | somāsaḥ | vṛtra-hatyeṣu | sat-pate | yat | kārave | daśa | vṛtrāṇi | aprati | barhiṣmate | ni | sahasrāṇi | barhayaḥ